|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.11. अध्यायः 011
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शुकवासवसंवादानुवादेनानृशंस्यप्रशंसनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च।
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह॥ 13-11-1(81670)
भीष्म उवाच। 13-11-2x(6770)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वासवस्य च संवादं शुकस्य च महात्मनः॥ 13-11-2(81671)
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः।
सविषं काण्डमादाय मृगयामास वै मृगम्॥ 13-11-3(81672)
तत्र चामिषलुब्धेन लुब्धकेन महावने।
अविदूरे मृगान्दृष्ट्वा बाणः प्रतिसमाहितः॥ 13-11-4(81673)
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा।
महान्वनतरुस्तत्र विद्धो मृगजिघांसया॥ 13-11-5(81674)
स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः।
उत्सृज्य फलपत्राणि पादपः शोषमागतः॥ 13-11-6(81675)
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः।
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः॥ 13-11-7(81676)
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि।
कृतज्ञः सह वृक्षेण धर्मात्मा सोप्यशुष्यत॥ 13-11-8(81677)
तमुदारं महासत्वमतिमानुषचेष्टितम्।
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः॥ 13-11-9(81678)
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः।
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः॥ 13-11-10(81679)
अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु।
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते॥ 13-11-11(81680)
ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः।
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह॥ 13-11-12(81681)
शुक भो पक्षिणांश्रेष्ठ दाक्षेयी सुप्रजास्त्वया।
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम्॥ 13-11-13(81682)
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्।
स्वागतं देवराज त्वं विज्ञातस्तपसा मया॥ 13-11-14(81683)
ततो दशशताक्षेण साधुसाध्विति भाषितम्।
अहो विज्ञानमित्येवं मनसा पूजितस्ततः॥ 13-11-15(81684)
तमेवं शुभकर्माणं शुकं परमधार्मिकम्।
जानन्नपि च तत्पापं पप्रच्छ बलसूदनः॥ 13-11-16(81685)
निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम्।
किमर्थं सेवसे वृक्षं यदा महदिदं वनम्॥ 13-11-17(81686)
अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः।
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने॥ 13-11-18(81687)
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्।
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम्॥ 13-11-19(81688)
भीष्म उवाच। 13-11-20x(6771)
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्।
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह॥ 13-11-20(81689)
अनतिक्रमणीयानि दैवतानि शचीपते।
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप॥ 13-11-21(81690)
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युते।
चालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः॥ 13-11-22(81691)
किमनुक्रोश्यं वैफल्यमुत्पादयसि मेऽनघ।
`अनुरक्तस्य भक्तस्य संस्पृशे न च पावकम्।'
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च॥ 13-11-23(81692)
अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम्।
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति॥ 13-11-24(81693)
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात्।
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः॥ 13-11-25(81694)
नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात्।
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत्॥ 13-11-26(81695)
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः।
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः॥ 13-11-27(81696)
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः।
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम्॥ 13-11-28(81697)
विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम्।
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान्॥ 13-11-29(81698)
ततः फलानि पत्राणि शाखाश्चापि मनोहराः।
शुकस्य दृढभक्तित्वाच्छ्रीमत्तां प्राप स द्रुमः॥ 13-11-30(81699)
शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै।
आयुषोन्ते महाराज प्राप शक्रसलोकताम्॥ 13-11-31(81700)
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः।
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः॥ ॥ 13-11-32(81701)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-11-3 विषये देशे। काण्डं बाणम्॥ 7-11-4 तत्र मृगयायाम्॥ 7-11-5 दुर्वारितास्त्रेण दुर्वार्यशस्त्रेण। निमित्ताल्लक्ष्याच्चपलश्चलित इषुर्यस्य तेन। निमित्तविफलेषुणेति ध. पाठः॥ 7-11-6 दिग्धेन लिप्तेन॥ 7-11-10 द्विजः पक्षी। आनृशंस्य परदुःखेन दुःखित्वम्॥ 7-11-11 सर्वेषां नृतिर्यगादीनाम्। सर्वत्र जातौ। सर्वं कृपाऽनैष्टुर्यादिकं दृश्यते इति वासवस्य बुद्धिरभवदिति सम्बन्धः॥ 7-11-13 दाक्षेयो दक्षदौहित्री शुकीनाम॥ 7-11-14 तपसा ज्ञानदृष्ट्या॥ 7-11-23 अनुक्रोश्य कृपायित्वा। वैफल्यं जन्मन इति शेषः॥ 7-11-25 संशयात् संशयं प्राप्य। अतः संशयच्छेत्तृत्वात्॥ 7-11-28 सम्भवं सम्यगौश्वर्यं वरं वव्रे॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|